पूर्वम्: ६।१।११३
अनन्तरम्: ६।१।११५
 
सूत्रम्
आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे॥ ६।१।११४
काशिका-वृत्तिः
आपोजुषणोवृष्णोवर्षिष्ठे ऽम्बे ऽम्बाले ऽम्बिकेपूर्वे ६।१।११८

यजुषि इत्येव। आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दाः अम्बे अम्बाले इत्येतौ च यावम्बिके शब्दात् पूर्वौ यजुषि पठितौ ते अति परतः प्रकृत्या भवन्ति। आपो अस्मान् मातरः शुन्धयन्तु। जुषणो अप्तुराज्यस्य। वृष्णो अंशुभ्यां गभस्तिपूतः। वषिष्ठे अधि नाके। अम्बे अम्बाल्यम्बिके यजुषीदमीदृशम् एव पठ्यते। अस्मादेव निपातनातम्बार्थनद्योर् ह्रस्वः इति ह्रस्वत्वं न भवति।
न्यासः
आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे। , ६।१।११४

आपो--इत्येवमादीनि सर्वाण्येतान्यनुकरणान्यविभक्तिकानि; "सुपां सुलुक्()" ७।१।३९ इत्यादिना तेभ्य उत्पन्नाया विभक्तेर्लुप्तत्वात्()। अत्रापो इति प्रथमाबहुवचनान्तस्यानुकारणम्()। "जुषाणो" इति। प्रथमैक वचनान्तस्य। "वृष्णो" इति। षष्ठ()एकवचनान्तस्य। "वषिष्ठे" इति। सप्तम्येकवचनान्तस्य। "अम्ब, अम्बाले" इत्येतयोर्विशेषणम्()। अम्बिकेशब्दात्? पूर्वे अम्बिकेपूर्वे, अस्मादेव निपातनात् समासः। ननु च "अम्बे" इति सम्बुद्ध्यन्तस्यानुकरणम्()? ततश्च "अम्बार्थनद्योह्र्यस्वः" ७।३।१०७ इति ह्यस्वेनैत्त्वापवादेन भवितव्यम्(), तत्? कथमम्बे इत्यत्रैत्त्वम्()? इत्यत आह--"अस्मादेव" इत्यादि। अम्बाले अम्बिके--इत्येतयोस्तु युक्तमेवैत्त्वम्()। वक्ष्यति हि ह्यस्वविधाने--"अम्बार्थं द्व्यक्षरं यदि" (वा।७।३।१०७) इति॥